|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.135. अध्यायः 135
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति दस्युभावेऽपि शास्त्रमर्यादानुसारिणः परलोकप्राप्तौ दृष्टान्ततया कापच्यचरितोपन्यासः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-135-0x(5719)(70031)
अत्राप्युदाहन्तीममितिहासं पुरातनम्।
यथा दस्युः समर्यादो दस्युत्वात्सिद्धिमाप्तवान्॥ 12-135-1(70032)
प्रहर्ता मतिमाञ्शूरः श्रुतवान्सुनृशंसवान्।
अक्षन्नाश्रमिणां धर्मं ब्रह्मण्यो गुरुपूजकः॥ 12-135-2(70033)
अनिषाद्यां क्षत्रियाज्जातः क्षत्रधर्मानुपालकः।
कापच्यो नाम नैषादिर्दस्युत्वात्सिद्धिमाप्तवान्॥ 12-135-3(70034)
अरण्ये सायं पूर्वाह्णे मृगयूथप्रकोपिता।
वेधिज्ञो मृगजातीनां नैषादानां च कोविदः॥ 12-135-4(70035)
सर्वकाननदेशज्ञः पारियात्रचरः सदा।
धर्मज्ञः सर्ववर्णानाममोघेषुर्दृढायुधः॥ 12-135-5(70036)
अप्यनेकशतां सेनामेक एव जिगाय सः।
स वृद्धावम्बपितरौ महारण्येऽभ्यपूजयत्॥ 12-135-6(70037)
मधुमांसैर्मूलफलैरन्नैरुच्चावचैरपि।
सत्कृत्य भोजयामास सम्यक्परिचचार ह॥ 12-135-7(70038)
आरण्यकान्प्रव्रजितान्ब्राह्मणान्परिपालयन्।
अपि तेभ्यो मृगान्हत्वा निनाय सततं वने॥ 12-135-8(70039)
येऽस्मान्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया।
तेषामासज्य गेहेषु कल्य एव स गच्छति॥ 12-135-9(70040)
तं बहूनि सहस्राणि ग्रामणीत्वेऽभिवव्रिरे।
निर्मर्यादानि दस्यूनां निरनुक्रोशवर्तिनाम्॥ 12-135-10(70041)
दस्यव ऊचुः। 12-135-11x(5720)
मुहूर्तदेशकालज्ञः प्राज्ञः शूरो दृढव्रतः।
ग्रामणीर्भव नो मुख्यः सर्वेपामेव संमतः॥ 12-135-11(70042)
यथायथा वक्ष्यसि नः करिष्यामस्तथातथा।
पालयास्मान्यथान्यायं यथा माता यथा पिता॥ 12-135-12(70043)
कापच्य उवाच। 12-135-13x(5721)
मा वधीस्त्वं स्त्रियं भीरुं मा शिशुं मा तपस्विनम्।
नायुध्यमानो हन्तव्यो न च ग्राह्या बलात्स्त्रियः॥ 12-135-13(70044)
सर्वथा स्त्री न हन्तव्या सर्वसत्वेषु बुध्यत।
नित्यं गोब्राह्मणे स्वस्ति योद्धव्यं च तदर्थतः॥ 12-135-14(70045)
सत्यं च नापि हर्तव्यं सारविघ्नं च मा कृथाः।
पूज्यन्ते यत्र देवाश्च पितरोऽतिथयश्च ह॥ 12-135-15(70046)
सर्वभूतेष्वपि वरो ब्राह्मणो मोक्षमर्हति।
कार्या चापचितिस्तेषां सर्वस्वेनापि भावयेत्॥ 12-135-16(70047)
यस्य त्वेते संप्रदुष्टास्तस्य विद्यात्पराभवम्।
न तस्य त्रिषु लोकेषु त्राता भवति कस्चन॥ 12-135-17(70048)
यो ब्राह्मणान्परिभवेद्विनाशं चापि रोचयेत्।
सूर्योदय इव ध्वान्ते ध्रुवं तस्य पराभवः॥ 12-135-18(70049)
इहैव फलमासीनः प्रत्याकाङ्क्षेत सर्वशः।
येये नो न प्रदास्यन्ति तांस्तांस्तेनाभियास्यसि॥ 12-135-19(70050)
शिष्ट्यर्थं विहितो दण्डो न वधार्थं विधीयते।
ये च शिष्टान्प्रबाधन्ते धर्मस्तेषां वधः स्मृतः॥ 12-135-20(70051)
ये च राष्ट्रोपरोधेन वृद्धिं कुर्वन्ति केचन।
तानेवानुम्रियेरंस्ते कुणपं कृमयो यथा॥ 12-135-21(70052)
ये पुनर्धर्मशास्त्रेण वर्तेरन्निह दस्यवः।
अपि ते दस्यवो भूत्वा क्षिप्रं सिद्धिमवाप्नुयुः। 12-135-22(70053)
भीष्म उवाच। 12-135-23x(5722)
ते सर्वमेवानुचक्रुः कापच्यस्यानुशासनम्।
वृद्धिं च लेभिरे सर्वे पापेभ्यश्चाप्युपारमन्॥ 12-135-23(70054)
कापच्यः कर्मणा तेन महतीं सिद्धिमाप्तवान्।
साधूनामाचरन्क्षेमं दस्यून्पापान्निवर्तयन्॥ 12-135-24(70055)
इदं कापच्यचरितं यो नित्यमनुचिन्तयेत्।
नारण्येभ्योऽपि भूतेभ्यो भयमृच्छेत्कथंचन॥ 12-135-25(70056)
न भयं तस्य मर्त्येभ्यो नामर्त्येभ्यः कथंचन।
न सतो नासतो राजन्स ह्यरण्येषु गोपतिः॥ ॥ 12-135-26(70057)
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-135-3 कायव्यो नामेति झ. पाठः। कापव्यो नामेति ट. पाठः। काश्यपो नामेति ध. पाठः॥ 12-135-4 निपातानां च कोविद इति ड. थ. ध. पाठः॥ 12-135-5 पारियात्रः पर्वतविशेषः॥ 12-135-9 आसज्य क्वचिन्निधाय। कल्ये प्रातः॥ 12-135-13 मावधीस्त्वमित्येकवचनं गणाभिप्रायेण॥ 12-135-14 स्वस्ति कल्याणं चिन्तनीयम्॥ 12-135-15 सारो विवाहादिकार्यं तत्र विघ्नं मा कृथाः। सस्यं च नोपहन्तव्यं सीरविघ्नं च मा कृथाः इति ट. ड. थ. पाठः॥ 12-135-16 अपचितिः पूजा॥ 12-135-18 ध्वान्ते ध्वान्तस्य॥ 12-135-19 ये ये वणिजः। नः अस्मभ्यम्॥ 12-135-20 शिष्ट्यर्थं दुष्टानां शासनार्थम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|